Thursday, September 4, 2014

संस्कृत हाइकुकाव्यानि च सिजोकाव्यानि च




संस्कृत हाइकुकाव्यानि च सिजोकाव्यानि च
हर्षदेवमाधवेन आधुनिकसंस्कृते स्थापितोयं काव्यप्रकारः । वस्तुतः ‘हाइकु’ जापान देशीयं काव्यस्वरूपं वर्तते । हर्षदेव माधवेन यौवनारम्भे १९७० तमात् ख्रिस्ताब्दाद् आरम्भः १९७४ पर्य़न्तं शतद्वयं हाइकुकाव्यानि लिखितानि यानि ‘संविद्’ पत्रिकायां १९७५-१९७९ ख्रिस्ताब्देषु क्रमशः प्रकाशितानि । ‘अत्रान्तरे’ तेषां सङ्ग्रह- शीर्षकमासीत् । कविना ‘हाइकु’काव्याय ‘बिल्वपत्रं’ नाम प्रदत्तम् । ‘अत्राऩ्तरे’ सङ्ग्रहे तान्कात्रयं लिखित्वा तेऩैव ‘तान्का’ नाम्नी काव्यविधा स्थापिता ।
     हाइकुकाव्यस्य दत्तमपरनाम कविना बिल्वपत्रमिति । भवन्तु सहस्रशतपुष्पाणि पूजायां किन्तु भवो भगवान् त्रिपुरारिस्तुष्यति बिल्वपत्रेणैव ।
     हाइकुकाव्यमपि त्रिचरणमयं, तस्यापि त्रिणी चरणानि वर्तन्ते, अतः सूचयति त्रिगुणसमन्वितविश्वदर्शनप्रभुत्वम् ।
     हाइकु- होडकु- सत्तरी- सताराक्षरी- त्रिदलं- बिल्विपत्रम्- इत्यादि बहूनि नामानि वर्तन्ते हाइकुमहोदयस्य । किन्तु बिल्वपत्रमेवा उचितमस्ति ।
     त्रिजन्मपापशमनाय स्वीकुरु नाथ । हे त्रिलोचन ! एतत् त्रिगुणात्मकं त्रि-पंक्ति-पत्रम् ।
       उद्भवः जापानदेशे मध्यकालीन- युगे कवयः राज्ञः समीपे हाइकुपठनं चक्रुः । प्रथमं ‘तान्का’ रूपेण तस्य रचनासीत् । किन्तु हाइकुकाव्यस्य वर्तमानरूपमेव प्रचलितमभवत् । बहवः कवयोः जाता हाइकुसर्जकाः किन्तु तेषु बाशो- सोकान-मोरीताके- इत्यादयः प्रमुखा वर्तन्ते ।
छन्द : केचिद् रूढिग्रस्ताः पण्डितमानिन कथयन्ति यद् हाइकुकाव्यस्य नास्ति छंदः । सत्यम् । किन्तु नास्ति छन्दोबन्धनमतो हि सर्वच्छन्दः स्वीकारशक्तिस्तस्मिन् वर्तते ।

यथा –
                पह्मं वा शशी ?
                नैव... वदनं; हस्ते
                तवाङ्गारकाः ।।
 
 अत्र शार्दूलविक्रीडितच्छाया
अपि च -
                वृक्षाग्रे पश्य
शुष्के, विकचनव-
शशिकुड्मलम् ।।
  अत्र स्रग्धराया गतिः ।
गतः सूर्यो हा !
धिक् ! तिमिरमभितः
हा ! कमलिनी ! ।। - अत्र शिखरिणीप्रयोगः ।
                       वृष्टिसमाप्ति –
       रथ दर्दुरनाद-
      एव.... -शिष्टोत्र ।।
वसन्ततिलकाप्रयोगोयम् ।।
चमत्कृति :- हाइकुकाव्यं सर्वकाव्यपरिभाषास्वीकृतं भवति । अत्र ध्वनिरपि समाविष्टो भवति । रसविरहितं काव्यमेव नास्ति । अत्र वक्रोक्तिस्फुटकाव्यत्वमपि चाह्लादकं भविष्यति ।
किन्तु तस्य पराकाष्ठा त्वर्थगौरवे वर्तते । हाइकुकविर्भवति शब्दस्वामी शब्दलाघवप्रयोगसामर्थ्येनैव । को न जानाति स्वधनुर्गुणम् आकर्णपर्यन्तमाकृष्यैव स्वलक्ष्यं साधयती धन्वी । हाइकुकविर्वाणीसंयमी भूत्वा भवति लक्ष्यसाधकः ।।
लघुत्वम् – हाइकुकाव्यस्य लघुत्वं न हानिकारकम् ईषदपि काव्यस्वरूपाय । जापानदेशः कोमलत्वविषये प्रसिद्धः, प्रकृतिरम्यशरीराः जनाः कोमलविषयप्रिया वर्तन्ते । अतो हि हाइकुकाव्यमपि रुचिकरं कोमलवर्णविन्यासयुक्तं वर्तते । किन्तु कविकुलगुरुणापि कथितम् –
‘तितीर्षुर्दुस्तरं मोहाद् उडुपेनास्मि सागरम्’ इदम् उडुपमेव, महाकविना यदुडुपं कथितं तत्तु महाकाव्यं- विशालनौकारूपं प्रतिभाति मे ।
वाक्छटा- हाइकुकाव्यं काकुदर्शनाय सफलम्, कदाचित् कवेः कल्पना- वैभवोपि प्रकटीकरोति । यथा-
               पतितं पुष्पं
पुनर्याति शाखाम् । ओह !
न शलभोऽयं तु ।
 शीर्णपुष्पाणि
 पुनः शाखाऽऽरूढानि
 अहो ! शलभाः ! (मोरीताके)

अथवा मम बिल्वपत्रम् –
स्यामकर्बुरः
सपादः पाषाणः ?
दर्दुरोयं तु ।।

जापानदेश उदितसूर्यदेशः कथ्यते । किन्तु भारतस्य प्रकृतिरम्यवपुरपि न
न्यूनतरम् । हिममण्डितानि गौरीगुरोः शिखरीणि, मृत्तिकाशुक्तौ मुक्तावत् काश्मीरम् भारतीचरणक्षालकसमुद्रप्लावितो दाक्षिणात्यः प्रदेशः, स्वर्गस्य कांतिमत्खण्डो भारत्त्या नाभिप्रदेशः, कविविष्णुदे- बुद्धदेवबसुमहाभागानां ‘सोनार’ बांग्लादेशः, अस्मद् विधानां पुण्यमयी गरीयसी माता गुर्जरी, अहो ! वैविध्यं भारतस्य !
  एतद् वैविध्यं दृष्टवा कोपि महाकविर्भविष्यति किन्तु तावत्कालपर्यन्तम्-
 मया यः सौन्दर्यानुभवः कृतः स हाइकुकाव्यवाही भवतु । मया यद् सौन्दर्यं दृष्टं तद् वर्णितम् तत्र किञ्चिद् अज्ञानं, जाड्यं, तन्मम, न सौदर्यस्य । सौदर्यं तु विधात्रा निर्मितं त्रिकालाबाधितं सत्यम् । यथा भरतयाज्ञिको वदति –
मानवहंसा
भवन्तु हाइकुकाव्यं
पाथेयं मार्गे ।।
साहित्यमानसहंसाः ! स्वीकुर्वन्तु बिसतन्तु- कोमलहाइकुपाथेयं साहित्ययात्रामार्गे ।
सीजोकाव्यानि- हर्षदेवमाधवेन ‘सीजो’ इत्याख्यः काव्यप्रकारो दक्षिणकोरिया देशस्य काव्यसाहित्यादानीतः । अयं काव्यप्रकारोतीव प्राचीनो वर्तते । अस्मिन्
काव्यप्रकारे कोरियादेशस्य सौन्दर्यं, जनानामावेगः, राष्ट्रभावनाः परम्परागौरवम् एतत् सर्वं कविभिः प्रकटीकृतम् । त्रिपङ्किक्तमयं काव्यस्वरूपमिदमस्ति । अत्र पञ्चचत्वारिंशत्संख्याकाः वर्णाः (In origin Syllabic counts round 45)
निश्चिताः कृताः । लघुकं ‘सीजो’ काव्यं स्वयं सम्पूर्णं भवति । अत्र त्रयश्चत्वारो वा वर्णसमूहाः (Phrases) भवन्ति । प्रथमपङ्क्तौ वस्तुनिरूपणप्रारम्भः (‘Chi’means the rise or statement the theme)
द्वितीयपङ्क्तौ कथावस्तुविकासः (‘Cheng’ means connection or development of theme) तृतीयपङ्क्तौ कथितव्य- वक्रता चमत्कृतिपूर्णा समाप्तिश्च ( ‘Chuan’ means a roll or twist of the theme “chieh” means conclusion or resolution or the theme)
अत्र केन्द्रसेथाने वर्तते । यथा-

*  बद्धदुर्गे शस्त्रवर्षाः                    * पौरजना हर्षोन्मत्ताः  
  अग्निज्वालाः/मन्त्रणा/                    पटहे जयघोषः ।
  शौर्यनादाः/रोदनानि                    हतोस्ति रिपुः समरे
  नाशयुक्ता यन्त्रणा ।                     सफलो राज्ञो रोषः ।
  अस्ति रात्र्यां स्त्रेहशब्दे                  हतः स/ विधवायै मे 
  वीरतायाः प्रेरणा ।।                    युद्धं न, भाग्यदोषः ।।
* अश्वा जाताः/प्राणा जाताः/         * कुम्भस्ना मग्नाः सर्वे 
  जातो वायुर्मनसि/                       क्लिन्नशरीरा याताः ।
  शैलाः/नद्यः/वृक्षाः/आशाः              धावन्ति गायन्ति स्नान्ति
  वसन्ति मे रहसि ।                     किं स्नाताः खलु स्नाताः ?
  मृदःप्रत्यणुं मयि                        मयि मृत्तिका- गर्भे 
  त्वमसि- तत् त्वमसि ।।               गङ्गाया धारा जाताः ।।
         
१९९४ तमे लिखितामि ‘सिजो’ काव्यानि ‘लावारसदिग्धाः स्वप्नमयाः पर्वताः’ संङ्ग्रहे (१९९६) प्रकाशितानि सन्ति ।